|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.216. अध्यायः 216
Mahabharata - Adi Parva - Chapter Topics
द्रौपदींप्रति कुन्त्या आशीर्वादः॥ 1 ॥ श्रीकृष्णप्रेषितालंकारादीनां पाण्डवैः स्वीकारः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-216-0x(1206)(9426)
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य ह।
न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन॥ 1-216-1(9427)
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः।
नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः॥ 1-216-2(9428)
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला।
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः॥ 1-216-3(9429)
रूपलक्षणसंपन्नां शीलाचारसमन्विताम्।
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम्॥ 1-216-4(9430)
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ।
रोहिणी च यथा सोमे दमयन्ती यथा नले॥ 1-216-5(9431)
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती।
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु॥ 1-216-6(9432)
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता।
सुभगा भोगसंपन्ना यज्ञपत्नी पतिव्रता॥ 1-216-7(9433)
अतिथीनागतान्साधून्वृद्दान्बालांस्तथा गुरून्।
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः॥ 1-216-8(9434)
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च।
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सला॥ 1-216-9(9435)
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः।
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ॥ 1-216-10(9436)
पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते।
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतं॥ 1-216-11(9437)
यथा च त्वाऽभिनन्दामि वध्वद्य क्षौमसंवृताम्।
तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्वितां॥ 1-216-12(9438)
वैशम्पायन उवाच। 1-216-13x(1207)
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः।
वैदूर्यमणिचित्राणि हैमान्याभरणानि च॥ 1-216-13(9439)
वासांसि च महार्हाणि नानादेश्यानि माधवः।
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च॥ 1-216-14(9440)
शयनासनयानानि विविधानि महान्ति च।
वैदूर्यवज्रचित्राणि शतशो भाजनानि च॥ 1-216-15(9441)
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः।
प्रेष्याः संप्रददौ कृष्णो नानादेश्याः स्वलङ्कृताः॥ 1-216-16(9442)
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान्।
रथांश्च दान्तान्सौवर्णैः शुभ्रैः पट्टैरलङ्कृतान्॥ 1-216-17(9443)
कोटिशश्च सुवर्णं च तेषामकृतकं तथा।
वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः॥ 1-216-18(9444)
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः।
मुदा परमया युक्तो गोविन्दप्रियकाम्यया॥ ॥ 1-216-19(9445)
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि षोडशाधिकद्विशततमोऽध्यायः॥ 216 ॥ ॥ समाप्तं वैवाहिकपर्व ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-216-12 हे वधु अद्य॥ षोडशाधिकद्विशततमोऽध्यायः॥ 216 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|